कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑ ।
स॒ध्री॒चीने॑न॒ मन॒सावि॑वेन॒न्तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥
कृ॒णोति॑ । अ॒स्मै॒ । वरि॑वः । यः । इ॒त्था । इन्द्रा॑य । सोम॑म् । उ॒श॒ते । सु॒नोति॑ ।
स॒ध्री॒चीने॑न । मन॑सा । अवि॑ऽवेनन् । तम् । इत् । सखा॑यम् । कृ॒णु॒ते॒ । स॒मत्ऽसु॑ ॥
यो यजमानः सोमयुशते कामयमानायेत्थामुत्र स्वर्गलोके स्थितायेन्द्राय सुनोति अभिषवं करोति इन्द्रोऽप्यस्मै यजमानाय वरिवो धनं कृणोति । करोति । सध्रीचीनेन सङ्गतेन मनसा प्रवणेन चित्तेनाविवेनम् । वेनतिः कान्तिकर्मा । विवेनो विगतेच्छः । तदन्योऽविवेनः । आत्मानं कामयमानं तमित्तमेव सुन्वन्तं यजमानं सखायं मित्रं समत्सु सङ्ग्रामेष्विन्द्रः कृणुते । करोति ॥ ६ ॥