मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् १०

संहिता

क इ॒मं द॒शभि॒र्ममेन्द्रं॑ क्रीणाति धे॒नुभि॑ः ।
य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥

पदपाठः

कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ ।
य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥

सायणभाष्यम्

मम मदीयमिमं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दशभिर्दशङ्ख्याकाभिः स्तुतिभिः कः क्रीणाति । क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्यएवमपि समयः क्रियते । यदायमिन्द्रो वृत्राणि त्वदीयान् शत्रून् जङ्घनत् हन्यात् अथानन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् । पुनर्दद्यात् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२