मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ११

संहिता

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्य॑ः सदा॒साः ॥

पदपाठः

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

सायणभाष्यम्

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैऋषिभिः संस्तुतो नु क्षिप्रं गृणानोऽस्माभिः स्तूयमानस्त्वमिषमन्नं जरित्रे स्तोत्रे मह्यं नद्यो नाद्भिर्नदीरिव पीपेः । प्यायय । प्रवृद्धं कुरु । हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्म स्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा स्याम । भूयास्म ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२