मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् २

संहिता

को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।
क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥

पदपाठः

कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः ।
कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥

सायणभाष्यम्

को यजमानो वचसा वाग्रूपया स्तुत्या सोम्याय सोमार्हायेंद्राय ननाम । नमति । प्रह्वीभवति । को वेन्द्राय मनायुर्भवति । स्तुतिकामोऽस्ति । क उस्रा इन्द्रेण दत्ता गा वस्ते । आच्छादयति । धारयतीत्यर्थः । क इन्द्रस्य युज्यं साहाय्यं वष्ति । इच्छति । कः सखित्वं कः भ्रात्रं भ्रातृभावं वृष्टि । इच्छति । कवये क्रान्तदर्शिन इन्द्रायोती ऊतये तर्पणाय । को भवतीति शेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३