मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ४

संहिता

तस्मा॑ अ॒ग्निर्भार॑त॒ः शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर॑न्तम् ।
य इन्द्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णाम् ॥

पदपाठः

तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥

सायणभाष्यम्

भारतो हविषो भर्ताग्निः । प्राणो भूत्वा प्रजा धारयन् भारत इति वाजसनेयकम् । अग्निस्तस्मै यजमानाय शर्म सुखं यंसत् । यच्छेत् । किञ्च अयमग्निर्ज्योक् चिरकालमुच्चरन्तमुद्यन्तं सूर्यं पश्यात् । पश्येत् । यो यजमान इन्द्राय सुनवामेत्याह इन्द्रार्थं सोमाभिषवं कुर्यामिति ब्रवीति । कीदृशायेन्द्राय । नरे नेत्रे नर्याय नरहिताय नृणां नराणां नेतॄणां मध्ये नृतमाय नेतृतमाय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३