मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ५

संहिता

न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑ति॒ः शर्म॑ यंसत् ।
प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥

पदपाठः

न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ।
प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥

सायणभाष्यम्

दभ्रा अल्पा बहवो न बहवोऽपि शत्रुजनास्तं यजमानं न जिनन्ति । न हिंसन्तु । य इन्द्राय सुनवामेत्याह तमिति पूर्वेण सम्बन्धः । अदितिरिन्द्रमातास्मै यजमानायोरु विस्तीर्णं शर्म सुखं यंसत् । यच्छतु । किञ्च इन्द्र इन्द्राय सुकृत् शोभनयागादीनां कर्ता यजमानः प्रियो भवति । मनायुरिन्द्रविषयस्तुतिकामश्चास्येन्द्रस्य प्रियो भवति । सुप्रावीः सुष्थु प्राविता सुष्ठु प्रगच्छन्नुपगच्छन्वा यजमानोऽस्येन्द्रस्य प्रियो भवति । सोमी सोमवान्यजमानोऽस्येन्द्रस्य प्रियो भवति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३