मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ६

संहिता

सु॒प्रा॒व्य॑ः प्राशु॒षाळे॒ष वी॒रः सुष्वे॑ः प॒क्तिं कृ॑णुते॒ केव॒लेन्द्र॑ः ।
नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥

पदपाठः

सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ ।
न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥

सायणभाष्यम्

प्राशुषाट् शत्रूणां प्रकर्षेण शीघ्रमभिभवता वीरो विक्रान्त एष इन्द्रः सुप्राव्यः सुष्ठूपगच्छतो हविर्भिः सुष्ठु प्रतर्पयितुर्वा सुष्वेः सुन्वतो यजमानस्य सम्बन्धिनीं केवला केवलामसाधारणां पक्तिं कृणुते । आत्मनः कुरुते । किञ्चेन्द्रोऽसुष्वेरसुन्वतो यजमानस्यापिर्व्याप्तो न भवति । इन्द्रोऽयजमानस्य सखा न भवति । जामिर्बन्धुश्च न भवति । अपि च दुष्ट्राव्यो दुरुपगमनस्या वाचः स्तुतिरहितस्य पुरुशस्यावहन्तेत् हिंसितैव भवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४