मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ७

संहिता

न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।
आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥

पदपाठः

न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ ।
आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भू॒त् ॥

सायणभाष्यम्

सुतपा अभिषुतं सोमं पिबन्निन्द्रो रेवता धनवता पणिना वणिजा लुब्धेनासुन्वता सोमाभिषवमकुर्वतायजमानेन सह सख्यं सखित्वं न सं गृणीते । न संस्तौति । नानुमन्यत इत्यर्थः । किञ्च अस्यायजमानस्य नग्नं निरर्थकं वेदो धनं ज्ञानं वा आ खिदति । उद्धरति । हन्ति । हिनस्ति च । अपि च सुष्वये सोमं सुन्वते पक्तये हवींषि पचते यजमानाय केवलोऽसाधारणः सन् विभूत् । विभवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४