मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ८

संहिता

इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म् ।
इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते ॥

पदपाठः

इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।
इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥

सायणभाष्यम्

पर उत्कृश्टा अवरे निकृष्ताश्च जना इन्द्रं हवन्ते । आह्वयन्ति । मध्यमासो मध्यमाश्चेन्द्रमेव हवन्ते । यान्तः कार्यसिद्ध्यर्थं गच्छन्तो जना इन्द्रमेवाह्वयन्ति । अवसितासो निविष्टाश्चेन्द्रमेवाह्वयन्ति । क्श्झियन्तो ग्रुहे निवसन्तो जना इन्द्रमेव हवन्ते । वाजयन्तो वाजमन्नमिच्छन्तो नरो नेतारो मनुष्या इन्द्रमेव हवन्ते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४