मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् ४

संहिता

प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ ।
अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ॥

पदपाठः

प्र । सु । सः । विऽभ्यः॑ । म॒रु॒तः॒ । विः । अ॒स्तु॒ । प्र । श्ये॒नः । श्ये॒नेभ्यः॑ । आ॒शु॒ऽपत्वा॑ ।
अ॒च॒क्रया॑ । यत् । स्व॒धया॑ । सु॒ऽप॒र्णः । ह॒व्यम् । भर॑त् । मन॑वे । दे॒वऽजु॑ष्टम् ॥

सायणभाष्यम्

अथैतदादिभिः श्येनः स्तूयते । हे मरुतो वेगेन मरुत्सदृशाः पक्षिणः स प्रसिद्धः श्येनाख्यो विः पक्षी विभ्यः पक्शिभ्यो युश्मत्तः प्र सु अस्तु । बलेन्द् प्रकृष्टो भवतु । किञ्च श्येनेभ्यः शंसनीयगमनेभ्यः स्वसमानजातिभ्यः पक्षिभ्यः सकाशादाशुपत्वातुपतनः शीघ्रगामी श्येनः प्रकृष्तो भवतु । सुपर्णः शोभनपतनो यद्यदा श्येनोऽचक्रया चक्रवर्जितया स्वधया रथेन देवजुष्ठं देवैः सेवितं हव्यं सोमलक्षणं हविर्मनवे प्रजापतये भरत् अहरत् द्युलोकसकाशादाहृतवान् । अत्र स्वधाशब्दो रथवाच्यचक्रया स्वधया वर्तमानमित्यादौ । ऋग्वे. १० ७-१९ । दर्शनात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५