मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् ५

संहिता

भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि ।
तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥

पदपाठः

भर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ ।
तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥

सायणभाष्यम्

यदि यदा विः पक्शी श्येनोऽतोऽमुश्माद्द्युलोकाद्वेविजानः सोमपालकान् भीशयन् भरत् । अहरत् । सोममाहृतवान् । तदोरुणा विस्तीर्णेन पथान्तरिक्षमार्गेण मनोजवा मनोवद्वेगयुक्तः सन् असर्जि । संसृष्ट आसीत् । सोम्येन सोममयेन मधुनान्नेन सह तूयं क्शिप्रं ययौ । जगाम । उतापि च अत्रास्मिन् लोके त्येनः सुपर्णः श्रवः सोमाहरननिमित्तं यशो विविदे । लेभे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५