मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् ६

संहिता

ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद॑म् ।
सोमं॑ भरद्दादृहा॒णो दे॒वावा॑न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥

पदपाठः

ऋ॒जी॒पी । श्ये॒नः । दद॑मानः । अं॒शुम् । प॒रा॒ऽवतः॑ । श॒कु॒नः । म॒न्द्रम् । मद॑म् ।
सोम॑म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒वऽवा॑न् । दि॒वः । अ॒मुष्मा॑त् । उत्ऽत॑रात् । आ॒ऽदाय॑ ॥

सायणभाष्यम्

ऋजीप्यृजुगामी परावतो दूरादंशुं सोमं ददमानो धारयन् श्येनः शंसनीयगमनो देववान्देवैः सहितः शकुनः पक्षी मन्द्रं मदनीयं स्तुत्यं मदं मदकरं सोममुत्तरादुद्गततरादमुष्माद्दिवो द्युलोकादादाय स्वीकृत्य ददृहानो दृढीभवन् भरत् । अहरत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५