मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् ७

संहिता

आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कम् ।
अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥

पदपाठः

आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् ।
अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥

सायणभाष्यम्

श्येनः शंसनीयगमनः पक्शी सवान् सवानां यज्ञानां सहस्रं सहस्रसंख्याकमयुतं चायुतसंख्याकम् । अपरिमितसंख्याकमित्यर्थः । साकं सह सोमं सोमलक्षणमन्नमादायादानं कृत्वाभरत् । अहरत् । आजहात । अत्रास्मिन् सोम आहृते सति पुरन्धिः पुरन्धीर्बहुकर्मामूरोऽमूढः प्राज्ञः इन्द्रः सोमस्य सम्बन्धिनि मदे हर्षे सति मूरा मूढा अरातीः शत्रूनजहात् । अत्यजत् । जघानेत्यर्थः ॥ अत्रारातिशब्दः स्त्रीलङ्गः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५