मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २७, ऋक् २

संहिता

न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।
ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥

पदपाठः

न । घ॒ । सः । माम् । अप॑ । जोष॑म् । ज॒भा॒र॒ । अ॒भि । ई॒म् । आ॒स॒ । त्वक्ष॑सा । वी॒र्ये॑ण ।
ई॒र्मा । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । उ॒त । वाता॑न् । अ॒त॒र॒त् । शूशु॑वानः ॥

सायणभाष्यम्

स गर्घो मां वामदेवं जोषं पर्याप्तं न घ नैवाप जभार । अपजहार । गर्भेऽपि वसतो मे मोहो नाभूदित्यर्थः । अहं तु ईमिदं गर्भस्थं दुःखं त्वक्षसा तीक्ष्णेन वीर्येण ज्ञानसामर्थ्येनाभ्यास । अभ्यभवम् । ईर्मा सर्वस्य प्रेरकः पुरन्धिः पुरां धारकः परमात्मारातीर्गर्भसंश्रितान् शत्रूनजहात् । अत्यजत् । जघान । उतापि च सूशुवानो वर्थमानः परिपूर्णः परमात्मा वातान् गर्भक्लेशकरान्वायूनतरत् । अतारीत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६