मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २८, ऋक् १

संहिता

त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥

पदपाठः

त्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः ।
अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥

सायणभाष्यम्

त्वा युजेति पञ्चर्चं सप्तमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमिन्द्रासोमदेवताकम् । अनुक्रान्तं च । त्वा युजैन्द्रासोममिति । विनियोगो लैङ्गिकः ॥

हे सोम तव त्वदीये तत्तस्मिन् सख्ये सखित्वे सति त्वा त्वया युजा सहायेनेन्द्रः सस्रुतः सरणशीला अपो वृष्तिलक्षणान्युदकानि मनवे मनुष्येभ्यः कः । अकरोत् । किञ्च अहिं व्रुत्रमसुरमहन् । हतवान् । सप्त सर्पणशीलाः सिन्धूनपोऽरिणात् । प्रैरयत् । अपिहितेवापिहितानीव वृत्रेण तिरोहितानि च । अत्रेवशब्दश्चार्थे । खानि स्रोतसां द्वाराण्यपावृणोत् । उद्घाटीतवान् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७