मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २८, ऋक् २

संहिता

त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो ।
अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥

पदपाठः

त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य॑स्य । इन्द्रः॑ । च॒क्रम् । सह॑सा । स॒द्यः । इ॒न्दो॒ इति॑ ।
अधि॑ । स्नुना॑ । बृ॒ह॒ता । वर्त॑मानम् । म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ ॥

सायणभाष्यम्

हे इन्दो सोम इन्द्रः सद्यः सपदि त्वा त्वया युजा सहायेन सूर्यस्य प्रेरकस्य सवितुः सम्बन्धिनः पूर्वं द्विचक्रस्य रथस्यैकं चक्रं सहसाभिभावुकेन बलेन नि खिदत् । आच्छिनत् । कीदृशम् । अधि उपरि स्नुना स्थितेन बृहता महतान्तरिक्षेन वर्तमानम् । किञ्च महो महतः प्रभूतस्य द्रुहो द्रोग्धुः सूर्यस्य सम्बन्धि विश्वायु सर्वतो गन्तृ चक्रमप धायि । इन्द्रेणापाहारि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७