मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २९, ऋक् १

संहिता

आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः ।
ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥

पदपाठः

आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः ।
ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि॑ । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥

सायणभाष्यम्

आ नः स्तुत इति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षम् त्रैष्टुभमैन्द्रम् । आ नः स्तुत इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

हे इन्द्र स्तुतस्त्वं वाजेभिर्वाजैरन्नैः सह तिरश्चित् प्राप्तानि । तरः सत इति प्राप्तस्य । नि. ३-२० । इति यास्कः । पुरूणि पूर्णानि सवना सवनानि नोऽस्मदीयान्यज्ञानुप प्रत्यूती ऊत्यै नोऽस्माकं रक्षणार्थं हरिभिरश्वैरा याहि । आगच्छ । कीदृशः । मन्दसानो मोदमानोऽर्यः स्वाम्याङ्गूषेभिः स्तोत्रैर्गृणानः स्तूयमानः सथराधाः सत्यधनः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८