मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २९, ऋक् २

संहिता

आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् ।
स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥

पदपाठः

आ । हि । स्म॒ । याति॑ । नर्यः॑ । चि॒कि॒त्वान् । हू॒यमा॑नः । सो॒तृऽभिः॑ । उप॑ । य॒ज्ञम् ।
सु॒ऽअश्वः॑ । यः । अभी॑रुः । मन्य॑मानः । सु॒ऽस्वा॒णेभिः॑ । मद॑ति । सम् । ह॒ । वी॒रैः ॥

सायणभाष्यम्

नर्यो नृभ्यो हितश्चिकित्वान् सर्वं जानन् सोतृभिः सोममभिषुण्वद्भिरृत्विग्भिर्हूयमान आहूयमान इन्द्रोऽस्मदीयं यज्ञमुप प्रति आ याति । आगच्छतु । हिस्मेति पूरणौ । स्वश्वः शोभनाश्वोपेतोऽभीरुर्निर्भयशीलः सुस्वानेभिः सुन्वद्भिर्यजमानैर्मन्यमानः स्तूयमानो य इन्द्रो वीरैः शूरैर्मरुद्भिः सह सं मदति ह सह माद्यत्येव । स इन्द्र आगच्छत्विति पूर्वेण सम्बन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८