मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २९, ऋक् ५

संहिता

त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्त॑ः ।
भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥

पदपाठः

त्वाऽऊ॑तासः । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । विप्राः॑ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः॑ । गृ॒णन्तः॑ ।
भे॒जा॒नासः॑ । बृ॒हत्ऽदि॑वस्य । रा॒यः । आ॒ऽका॒य्य॑स्य । दा॒वने॑ । पु॒रु॒ऽक्षोः ॥

सायणभाष्यम्

हे मघवन्धनवन्निन्द्र त्वोतासस्त्वया रक्षिता विप्रा मेधाविनो गृनन्तस्त्वां स्तुवन्तः सूरयः स्तोतारो वयं बृहद्दिवस्य महद्दीप्तेराकाय्यस्य आ समन्तात्त्सुत्यस्य पुरुक्षोर्बह्वन्नस्य बहुकीर्तेर्वा ते त्वदीयस्य रायो धनस्य दावने दाने निमित्ते सति भेजानासस्त्वां भजमानाः स्याम । भवेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८