नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।
नकि॑रे॒वा यथा॒ त्वम् ॥
नकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् ।
नकिः॑ । ए॒व । यथा॑ । त्वम् ॥
नकिरिन्द्रेति चतुर्विंशत्युचं नवमं सूक्तं वामदेवस्यार्षं गायत्रम् । अष्टमी चतुर्विंशी च द्वे अनुष्टुभौ । इन्द्रो देवता । द्विश्चिद्घेत्ययं तृच उषोदेवताक इन्द्रदेवताकश्च । तथा चानुक्रान्तम् । नकिश्चतुर्विंशतिर्दिवश्चित्तृच उषस्यश्च गायत्रं ह्यष्टम्यन्त्ये चानुष्टुभाविति । अतिरात्रे तृतीये पर्याये मैत्रावरुणसस्त्र उत्तमावर्जमिदं सूक्तं तथा च सूत्रितम् । नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेत् ॥ आ. ६-४ ॥ इति ॥
हे वृत्रहन्निन्द्र वृत्रस्य नाशकेन्द्र । लोक एकोऽपीति शेशः । त्वत्त्वत्त उत्तर उत्कृष्ततरो निकिरस्ति । न भवति । त्वत्तो ज्यायान् प्रशस्यतर एकोऽपि नास्ति । हे इन्द्र त्वं लोके यथा प्रसिद्धो भवसि तथाविध एकोऽपि नकिरेवास्ति । नैव भवति । कश्चिदपि लोक इन्द्रसदृशो नास्तीत्यर्थः ॥ १ ॥