मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २

संहिता

स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः ।
स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥

पदपाठः

स॒त्रा । ते॒ । अनु॑ । कृ॒ष्टयः॑ । विश्वा॑ । च॒क्राऽइ॑व । व॒वृ॒तुः॒ ।
स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥

सायणभाष्यम्

हे इन्द्र कृष्तयः प्रजास्ते त्वामनु लक्षीकृत्य सत्रा सत्यमेव ववृत्य्ः । वर्तन्ते । तत्र दृष्टान्तः । विश्वा विश्वानि व्याप्तानि चक्रेव चक्राणीव । यथा चक्राणि शकटमनुवर्तन्ते तद्वत् । हे इन्द्र महान्स्त्वं सत्रा सत्यमेव श्रुतो विश्रुतोऽसि । गुणैः प्रख्यातो भवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९