मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ३

संहिता

विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इन्द्र युयुधुः ।
यदहा॒ नक्त॒माति॑रः ॥

पदपाठः

विश्वे॑ । च॒न । इत् । अ॒ना । त्वा॒ । दे॒वासः॑ । इ॒न्द्र॒ । यु॒यु॒धुः॒ ।
यत् । अहा॑ । नक्त॑म् । आ । अति॑रः ॥

सायणभाष्यम्

हे इन्द्र विश्वे च नेत्सर्व एव देवासोऽसुरान्विजिगीषवो देवा अना प्राणरूपेण बलेन त्वा त्वां सहायं सब्ध्वा युयुधुः । असुरैः सह युद्धं चक्रुः । यद्यस्मात्कारणादहा अहःसु नक्तं रात्रिषु चातिरः । आ समन्तात् शत्रूनवधीः । अतः कारणाद्युयुधुरिति पूर्वेण सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९