मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ४

संहिता

यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते ।
मु॒षा॒य इ॑न्द्र॒ सूर्य॑म् ॥

पदपाठः

यत्र॑ । उ॒त । बा॒धि॒तेभ्यः॑ । च॒क्रम् । कुत्सा॑य । युध्य॑ते ।
मु॒षा॒यः । इ॒न्द्र॒ । सूर्य॑म् ॥

सायणभाष्यम्

यत्र यस्मिन्युद्ध उतापि च हे इन्द्र त्वं बाधितेभ्यः कुत्ससहायेभ्यो युध्यते युद्धं कुर्वते कुत्साय च सूर्यं सूर्यसम्बन्धि चक्रं मुषायः । अमुष्णाः । अपहृतवानसीत्यर्थः । तस्मिन्युद्धे प्रावः शचीभिरेतशमिति परेण सम्बन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९