मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ५

संहिता

यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् ।
त्वमि॑न्द्र व॒नूँरह॑न् ॥

पदपाठः

यत्र॑ । दे॒वान् । ऋ॒घा॒य॒तः । विश्वा॑न् । अयु॑ध्यः । एकः॑ । इत् ।
त्वम् । इ॒न्द्र॒ । व॒नून् । अह॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वमेक इदसहाय एव यत्र यस्मिन् सङ्ग्रामे देवानिन्द्रादीनृघायतो बाधमानान्विश्वान् सर्वान्राक्षसादीनयुध्यः । युद्धमकरोः । तथा वनून् हिंसकानहन् । अवधीः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९