यत्रो॒त मर्त्या॑य॒ कमरि॑णा इन्द्र॒ सूर्य॑म् ।
प्राव॒ः शची॑भि॒रेत॑शम् ॥
यत्र॑ । उ॒त । मर्त्या॑य । कम् । अरि॑णाः । इ॒न्द्र॒ । सूर्य॑म् ।
प्र । आ॒वः॒ । शची॑भिः । एत॑शम् ॥
यत्र यस्मिन् सङ्ग्राम उतापि च हे इन्द्र त्वं मर्त्याय मनुष्युआयैतशाख्याय ऋषये सूर्यमरिणाः । अहिंसीः । कमिति पूरणः । तदानीं शचीभिर्युद्धकर्मभिरेतशमेतत्संज्ञकमृषिं प्रावः । प्रकर्षेणारक्षः ॥ ६ ॥