मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ७

संहिता

किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः ।
अत्राह॒ दानु॒माति॑रः ॥

पदपाठः

किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । मघ॑ऽवन् । म॒न्यु॒मत्ऽत॑मः ।
अत्र॑ । अह॑ । दानु॑म् । आ । अ॒ति॒रः॒ ॥

सायणभाष्यम्

हे वृत्रहन् वृत्राणामावरकाणां तमसां हन्तर्मघवन्धनवन्निन्द्र त्वमादनन्तरमेव उतापि च । किमितिप्रश्ने । मन्युमत्तमोऽसि । अत्यन्तं क्रोधवान् भवसि । अत्रास्मिन्नन्तरिक्षेऽहैव दानुं दनोः पुत्रं वृत्रमातिरः । आ समन्तादहिंसीः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०