मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ८

संहिता

ए॒तद्घेदु॒त वी॒र्य१॒॑मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् ।
स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥

पदपाठः

ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य॑म् । इन्द्र॑ । च॒कर्थ॑ । पौंस्य॑म् ।
स्त्रिय॑म् । यत् । दुः॒ऽह॒ना॒युव॑म् । वधीः॑ । दु॒हि॒तर॑म् । दि॒वः ॥

सायणभाष्यम्

हे इन्द्र उतापि च यद्यस्त्वमेतदुपलक्षितं पौंस्यं बलं वीर्यं सामर्थ्योपेतं चकर्थ । कृतवानसि । घेदिति पूरणौ । किञ्च दुर्हणायुवं दुष्टं हननमिच्छन्तीं दिवो दुहितरं द्युलोकसकाशादुत्पन्नां स्त्रियमुषसं वधीः । अवधीः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०