मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ९

संहिता

दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नाम् ।
उ॒षास॑मिन्द्र॒ सं पि॑णक् ॥

पदपाठः

दि॒वः । चि॒त् । घ॒ । दु॒हि॒तर॑म् । म॒हान् । म॒ही॒यमा॑नाम् ।
उ॒षस॑म् । इ॒न्द्र॒ । सम् । पि॒ण॒क् ॥

सायणभाष्यम्

हे इन्द्र महांस्त्वं दिवो दुहितरं द्युलोकस्य पुत्रीं महीयमानां पूज्यमानामुषसमुषोदेवीं सं पिणक् चिद्घ । संपिष्तवानसि खलु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०