उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ ।
परि॑ ष्ठा इन्द्र मा॒यया॑ ॥
उ॒त । सिन्धु॑म् । वि॒ऽबा॒ल्य॑म् । वि॒ऽत॒स्था॒नाम् । अधि॑ । क्षमि॑ ।
परि॑ । स्थाः । इ॒न्द्र॒ । मा॒यया॑ ॥
हे इन्द्र उतापि च विबाल्यं विगत बाल्यावस्थां सम्पूर्णजलां वितस्थानां वितिष्ठमानां सिन्धुं सदीमधि क्षमि क्षमायां मायया प्रज्ञया परि ष्थाः । पर्यस्थाः । सर्वतः स्थापनं कृतवानसि ॥ १२ ॥