मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १३

संहिता

उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् ।
पुरो॒ यद॑स्य सम्पि॒णक् ॥

पदपाठः

उ॒त । शुष्ण॑स्य । धृ॒ष्णु॒ऽया । प्र । मृ॒क्षः॒ । अ॒भि । वेद॑नम् ।
पुरः॑ । यत् । अ॒स्य॒ । स॒म्ऽपि॒णक् ॥

सायणभाष्यम्

उतापि च हे इन्द्र धृष्णुया धृष्णुः धर्षकस्त्वं शुष्णस्य शुष्णनाम्नोऽसुरस्य सम्बन्धि वेदनं वित्तमभि अभितः सर्वतः प्रम्रुक्षः । प्रकर्षेणाबाधथाः । यद्यदास्य शुष्णस्य पुरः पुराणि नगराणि सम्पिणक् । सम्पिष्तवानसि । तदा प्र मृक्ष इति सम्बन्धः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१