उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ ।
अवा॑हन्निन्द्र॒ शम्ब॑रम् ॥
उ॒त । दा॒सम् । कौ॒लि॒ऽत॒रम् । बृ॒ह॒तः । पर्व॑तात् । अधि॑ ।
अव॑ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब॑रम् ॥
उतापि च हे इन्द्र त्वं दास मुपक्षपयितारं कौलितरं कुलितरनाम्नोऽपत्यं शंबरमसुरं बृहतो महतः पर्वतादद्रेरध्युपरि अव अवाचीनं कृत्वाहन् । हतवानसि ॥ १४ ॥