मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १५

संहिता

उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः ।
अधि॒ पञ्च॑ प्र॒धीँरि॑व ॥

पदपाठः

उ॒त । दा॒सस्य॑ । व॒र्चिनः॑ । स॒हस्रा॑णि । श॒ता । अ॒व॒धीः॒ ।
अधि॑ । पञ्च॑ । प्र॒धीन्ऽइ॑व ॥

सायणभाष्यम्

उतापि च हे इन्द्र त्वं प्रधीनिव चक्रस्य परितः स्थितान् शङ्कूनिव हिंसकान्पन्च शता पञ्चशतानि पञ्चशतसंख्याकान् सहस्राणि सहस्रसंख्याकान्दासस्य लोकानामुपक्षपयितुर्वर्चिनो वर्चिनामकस्यासुरस्य सम्बन्धिनोऽनुचरान्पुरुषानध्यधिकमवधीः । हतवानसि ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१