मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १६

संहिता

उ॒त त्यं पु॒त्रम॒ग्रुव॒ः परा॑वृक्तं श॒तक्र॑तुः ।
उ॒क्थेष्विन्द्र॒ आभ॑जत् ॥

पदपाठः

उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः॑ । परा॑ऽवृक्तम् । श॒तऽक्र॑तुः ।
उ॒क्थेषु॑ । इन्द्रः॑ । आ । अ॒भ॒ज॒त् ॥

सायणभाष्यम्

उतापि च शतक्रतुः शकर्मेन्द्रस्त्यं तं प्रसिद्धमग्रुव एतनाम्न्याः पुत्रं परावृक्तमेतन्नामकमुक्थेषु स्तोत्रेष्वाभजत् । भागिनं कृतवान् । अयमर्थो वम्रीभिः पुत्रमग्रुवः । ऋग्वे. ४-१९-९ । इतस्यामृचि प्रतिपादित इति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२