मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १७

संहिता

उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पति॑ः ।
इन्द्रो॑ वि॒द्वाँ अ॑पारयत् ॥

पदपाठः

उ॒त । त्या । तु॒र्वशा॒यदू॒ इति॑ । अ॒स्ना॒तारा॑ । शची॒३॒॑ऽपतिः॑ ।
इन्द्रः॑ । वि॒द्वान् । अ॒पा॒र॒य॒त् ॥

सायणभाष्यम्

उतापि च अस्नातारास्नातारौ ययातिशापादनभिषिक्तौ त्या त्यौ तौ प्रसिद्धौ तुर्वशायदू तुर्वशनामानं यदुनामकं च राजानौ शचीपतिः कर्मणां पालकः । यद्वा । शचीन्द्रस्य भार्या । तस्याः पतिर्घर्ता विद्वान् सकलमपि जानन्निन्द्रोऽपारयत् । अभिषेकार्हावकरोत् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२