मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १८

संहिता

उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिन्द्र पा॒रतः॑ ।
अर्णा॑चि॒त्रर॑थावधीः ॥

पदपाठः

उ॒त । त्या । स॒द्यः । आर्या॑ । स॒रयोः॑ । इ॒न्द्र॒ । पा॒रतः॑ ।
अर्णा॑चि॒त्रर॑था । अ॒व॒धीः॒ ॥

सायणभाष्यम्

उतापि च सद्यः सपदि हे इन्द्र त्वं त्या त्यौ तावार्यार्यावार्यत्वाभिमानिनौ सन्तावपि । इन्द्रविषयभक्तिश्रद्धारहितावित्यर्थः । सरयोः सरय्वा नद्याः पारतः पारे तीरे वसन्तावर्नाचित्ररथा अर्णनामकं चित्ररथनामकं च राजानाववधीः । अहिंसीः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२