मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २०

संहिता

श॒तम॑श्म॒न्मयी॑नां पु॒रामिन्द्रो॒ व्या॑स्यत् ।
दिवो॑दासाय दा॒शुषे॑ ॥

पदपाठः

श॒तम् । अ॒श्म॒न्ऽमयी॑नाम् । पु॒राम् । इन्द्रः॑ । वि । आ॒स्य॒त् ।
दिवः॑ऽदासाय । दा॒शुषे॑ ॥

सायणभाष्यम्

इन्द्रोऽश्मन्मयीनां पाषाणैर्निर्मितानां पुरां शम्बरस्य सम्बन्धिनां नगराणाम् शतं शतसंख्याकं दिवोदासायैतन्नामकाय दाशुषे हविर्दत्तवते यजमानाय व्यास्यत् । व्यक्शिपत् । ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२