मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २२

संहिता

स घेदु॒तासि॑ वृत्रहन्त्समा॒न इ॑न्द्र॒ गोप॑तिः ।
यस्ता विश्वा॑नि चिच्यु॒षे ॥

पदपाठः

सः । घ॒ । इत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । स॒मा॒नः । इ॒न्द्र॒ । गोऽप॑तिः ।
यः । ता । विश्वा॑नि । चि॒च्यु॒षे ॥

सायणभाष्यम्

उतापि च हे इन्द्र यस्त्वं ता तानि विश्वानि समस्तान् शत्रून् चिच्युषे । प्रच्यावयः । हे वृत्रहन् वृत्राणां शत्रूणां हिंसकेन्द्र गोपरिर्गवां पालकः स त्वं समानः सर्वेषां यजमानानां समः सन् प्रख्यातोऽसि । घेदिति पूरणौ ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३