मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २४

संहिता

वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।
वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥

पदपाठः

व॒मम्ऽवा॑मम् । ते॒ । आ॒ऽदु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।
वा॒मम् । पू॒षा । वा॒मम् । भगः॑ । वा॒मम् । दे॒वः । करू॑ळती ॥

सायणभाष्यम्

हे अदुरे शत्रूणामादारयितरिन्द्र ते तव वामं वामं यद्यद्वननीयं सम्भजनीयं धनमस्ति लोके तद्वामं वस्वर्यमारीणां नियमयितैतन्नामको देवो ददातुय् । प्रयच्छतु । तथा करूळती कृत्तदन्तः पूषा पोषको देवो वामं धनं ददातु । भगोऽपि धनं ददातु । ननु करूळतीत्येतत्संनिहितत्वाद्भग इत्यनेन सम्बन्धनीयम् । अथवार्यमादीनां त्रयाणामपि विशेषणत्वेन भाव्यं कथं पूष्णो विशेषणं स्यादिति सखांक्षत्वात् न । सान्निध्यकाङ्क्षयोः सद्भावेऽपि योग्यतामन्तरेणान्वयायोगात् । तस्मात्पूषा प्रपिष्तभागोऽदन्तको हि । तै. सं २-६-८-५ । इत्यादिश्रुतिषु पूष्ण एवादन्तकत्वेन प्रसिद्धेर्व्यवहितस्यापि तस्यैव विशेषत्वं युक्तम् । वामं वननीयं भवतीत्याअदि निरुक्तम् । ६-३१ । अत्र द्रष्टव्यम् ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३