मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १

संहिता

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒ः सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥

पदपाठः

कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।
कया॑ । शचि॑ष्ठया । वृ॒ता ॥

सायणभाष्यम्

कया न इति पञ्चदशर्चं दशमं सूक्तं वामदेवस्यार्षमैन्द्रं गायत्रम् । अभी षु ण इत्येषा पादनिचृन्नाम गायत्री त्रयः सप्तकाः पादनिचृदिति तल्लक्षणयुक्तत्वात् । तथा चानुक्रमणिका । कया पञ्चोनाभी षु पादनिचृदिति ॥ सूक्तविनियोगो लैङ्गिकः । अग्निष्टोमे चातुर्विंशिकेऽहनि च माध्यन्दिने सवने मैत्रावरुणस्य कया न इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च । होत्रकाणां कया नश्चित्र आ भुवत् । आ. ७-४ । इति । वरुण प्रघासेषु कायस्य हविषोऽनुवाक्या कयान इत्येषा । तथा च सूत्रितम् । कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्रे ॥ आ. २-१७ । इति ॥

सदावृधः सदा वर्थमानश्चित्रश्चायनीयः पूजनीयः सखा मित्रभूत इन्द्रः कयोती ऊत्या तर्पणेन नोऽस्माना भुवत् । अभिमुख्येन भवेत् । शचिष्थया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन कया वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४