मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् २

संहिता

कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः ।
दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥

पदपाठः

कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः ।
दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥

सायणभाष्यम्

मंहिष्ठः पूजनीयः सत्यः सत्यभूतो मदानां मादयितॄणां मध्ये को मदकरोऽन्धसः सोमस्य रसो दृळ्हा चित् दृढान्यपि वसु वसूनि शत्रूणां धननन्यारुज आ समन्ताद्भंक्तुं हे इन्द्र त्वा त्वां मत्सत् । मादयेत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४