मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ४

संहिता

अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः ।
नि॒युद्भि॑श्चर्षणी॒नाम् ॥

पदपाठः

अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व॑तः ।
नि॒युत्ऽभिः॑ । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

हे इन्द्र त्वं वृत्तम् चक्रं न वर्तमानं चक्रमिवार्वत उपगंतॄन्नोऽस्मान् चर्षणीनामस्मदीयानां मनुष्यानां नियुद्भिः स्तुतिभिरभ्या ववृत्स्व । अभ्यावर्तस्व ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४