मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ५

संहिता

प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि ।
अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥

पदपाठः

प्र॒ऽवता॑ । हि । क्रतू॑नाम् । आ । ह॒ । प॒दाऽइ॑व । गच्छ॑सि ।
अभ॑क्षि । सूर्ये॑ । सचा॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं क्रतूनां कर्मणां यजमानानां सम्बन्धिनः प्रवता प्रवतः प्रवणान्देशान्पदेव पदानि स्वकीयानि स्थानानीवा गच्छसि हि । आगतो भवसि खलु । हेति पूरणः । हे इन्द्र त्वामहं सूर्ये सूर्येण सचा सहाभक्षि । भजे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४