मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ६

संहिता

सं यत्त॑ इन्द्र म॒न्यव॒ः सं च॒क्राणि॑ दधन्वि॒रे ।
अध॒ त्वे अध॒ सूर्ये॑ ॥

पदपाठः

सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे ।
अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदर्थं मन्यवः स्तुतयो यद्यदा सं दधन्विरे । अस्माभिरनुमन्यन्ते । चक्राणि चंक्रमणानि कर्माणि च सं दधन्विरे अध तदानीं ताः स्तुतयस्तानि कर्माणि च त्वे त्वयि भवन्ति । अध तदनन्तरं सूर्ये च भवन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५