उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते ।
दाता॑र॒मवि॑दीधयुम् ॥
उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ ।
दाता॑रम् । अवि॑ऽदीधयुम् ॥
हे शचीपते कर्मपालकेन्द्र उतापि च मघवानं धनवन्तं दातारं स्तोतृभ्योऽभीष्टप्रदं त्वा त्वामविदीधयुम् । विदीधयुरदीप्यमानः । न विदीधयुरविदीधयुः । तं दीप्यमानमाहुः स्म । प्रवदन्ति खलु । हीदिति द्वयं पूरणार्थं ॥ ७ ॥