मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ८

संहिता

उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते ।
पु॒रू चि॑न्मंहसे॒ वसु॑ ॥

पदपाठः

उ॒त । स्म॒ । स॒द्यः । इत् । परि॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते ।
पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु॑ ॥

सायणभाष्यम्

उतापि च हे इन्द्र त्वं सद्य इत्सद्य एव शशमानाय स्तुतिं कुर्वते । शशमानः शंसमानः । नि. ६-८ । इति यास्केनोक्तत्वात् । सुन्वते सोमाभिषवं कुर्वते यजमानाय पुरु चित्पुरूणि बहून्यपि वसु वसूनि धनानि परि परितो मंहसे स्म । प्रयच्छसि खलु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५