मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ९

संहिता

न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वर॑न्त आ॒मुरः॑ ।
न च्यौ॒त्नानि॑ करिष्य॒तः ॥

पदपाठः

न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः॑ । वर॑न्ते । आ॒ऽमुरः॑ ।
न । च्यौ॒त्नानि॑ । क॒रि॒ष्य॒तः ॥

सायणभाष्यम्

हे इन्द्र आमुरो भादका राक्शसादयस्ते त्वदीयं शतं चन शतपरिमितमपि राधो धनं नहि वरन्ति स्म । न वारयन्ति खलु । किञ्च शत्रूणां हिंसनं करिष्यतस्तवच्यौत्नानि बलानि न वारयन्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५