मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १०

संहिता

अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑ ।
अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥

पदपाठः

अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र॑म् । ऊ॒तयः॑ ।
अ॒स्मान् । विश्वाः॑ । अ॒भिष्ट॑यः ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीयाः शतं शतसंख्याका ऊतयो रक्षा अस्मानवन्तु । रक्षण्तु । सहस्रं सहस्रसंख्याकास्त्वदीया रक्षा अस्मानवन्तु । विश्वाः सर्वाण्यभिष्टयस्त्वदीयान्यभिगमनान्यस्मानवन्तु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५