आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।
म॒हान्म॒हीभि॑रू॒तिभि॑ः ॥
आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ ।
म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥
आ तू न इन्द्रेति चतुर्विंशत्यृचमेकादशं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्रम् । अन्त्ये कनीनकेवेत्यादिके द्वे इन्द्रस्याश्वदेवताके । तथा चानुक्रान्तम् । आ तू नश्चतुर्विंशतिरन्त्याभ्यामिन्द्राश्वौ स्तुताविति । गतो विनियोगः ॥
हे वृत्रहन् वृत्रानाम् शत्रूणां हिंसकेन्द्र त्वं नोऽस्मान्प्रति तु क्षिप्रमागच्छ । हे इन्द्र महान्प्रभूतस्त्वं महीभिर्महतीभिरूतिभी रक्षाभिः सहास्माकमर्धं समीपमा गहि । आगच्छ ॥ १ ॥