मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २

संहिता

भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।
चि॒त्रं कृ॑णोष्यू॒तये॑ ॥

पदपाठः

भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ ।
चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥

सायणभाष्यम्

हे चित्र चायनीय पूजनीयेन्द्र त्वं भृमिश्चित् भ्रमणशीलोऽपि तूतुजिर्घासि । अस्मदभीष्टप्रदाता च भवसि । आकारश्चार्थे । चित्रिणीषु चित्रकर्मयुक्तास्वस्मद्रूपासु प्रजासु चित्रं चायनीयं धनमूतये रक्षणाय आ कृणोषि । आ समन्तात्करोषि । घेति पूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७