मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ३

संहिता

द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा ।
सखि॑भि॒र्ये त्वे सचा॑ ॥

पदपाठः

द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा ।
सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं दभ्रेभिश्चिदल्पैरपि सखिभिर्यजमानैह् सह शशीयांसम् । शशप्लुतगतौ । उत्प्लवमानं व्राधन्तं महान्तमपि शत्रुमोजसा बलेन हंसि । नाशयसि । ये यजमानास्त्वे त्वयि सचा सङ्गताः । तैरिति पूर्वेण सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७